Posts Tagged ‘sanskrit’

आं गूगल् एव…

4 October, 2013

आं गूगल् एव…

उद्योगकार्याय २००५-तमे वर्षे अहम् एकदा अमेरिकायाः टूसॉन्‌नगरं गतवान् आसम्। तत्र कानिचन दिनानि मया प्रयोगशालायां कार्यं करणीयम् आसीत्। तस्यां प्रयोगशालायाम् अन्योऽपि एकः तन्त्रज्ञः कार्यं करोति स्म। उपपञ्चाशद्वर्षीयः सः स्वस्य कार्ये भृशं निपुणः आसीत्, पुनः साहाय्यकरत्वगुणः अपि तस्मिन् आसीत्। एकदा सः कस्यचिद् बृहतः पुस्तकस्य पृष्ठानि विवर्तमानः मया दृष्टः। कस्याश्चित् सूचनायाः अन्वेषणं करोति इति अभासत। किञ्चित्कालम् अहं तम् अवीक्षे, अन्वेषणे तदीये साफल्यम् अलक्षयित्वा अहं तं पृष्टवान् – “किम् अन्विषति?” इति। सः कस्यचित् विद्युद्यन्त्रावयवस्य नाम उक्तवान्।

“गूगल्-मध्ये किमर्थं न अन्विषति?” – अहं पृष्टवान्।

“गूगल्? तन्नाम किम्?”

“भवान् गूगल् न जानाति?”

“न।”

“अस्तु, अहं दर्शयामि। अन्तर्जाले प्रमुखः अन्वेषकः गूगल् एव। तस्य साहाय्येन भवान् कमपि विषयम् अन्वेष्टुं शक्नोति। भवतः प्रकोष्ठं गच्छाव?”

“निश्चयेन।”

तत्र गत्वा अहं तस्य सङ्गणके गूगल्-इत्यस्य मुख्यपृष्ठम् उद्‍घाट्य तेन इष्टस्य अवयवस्य नाम लिखितवान्।

“अत्र क्लिक् कृते…अनेकानां पृष्ठानाम् अनुबन्धाः दृश्यन्ते। कुत्रापि क्लिक् कृते भवान् यदिच्छति तस्य सर्वं विवरणम् अचिरेण प्राप्नुयात्। पश्यतु।”

“एवं वा? धन्यवादः।”

तदनन्तरम् अहं ततः प्रस्थातुम् उद्युक्तः। मयि पदमेकं निर्गते सः पृष्टवान् –

“भारते सर्वे गूगल् कुर्वन्ति?”

 

Advertisements

लघुनाटकम्

21 August, 2013

स्मरणस्य महत्त्वम्

 

पात्रसूचिः

दीपकः – यात्री

व्रजमोहनः – ताम्बूलविक्रेता

 

(कस्यचित् ग्रामस्य बस्-स्थानकम्।)

दीपकः – भोः भ्रातः, बेङ्गलूरुनगरं गच्छत् लोकयानं कदा आगमिष्यति?

व्रजमोहनः – सार्धत्रिवादनं नियतसमयः। इदानीं पञ्चविंशत्यधिकत्रिवादनम्। पञ्चनिमेशान् प्रतीक्षतां, यानम् आगच्छत्येव। ताम्बूलं स्वीकरोतु।

दीपकः – मास्तु, धन्यवादः। अहो! यानम् आगतम्।

व्रजमोहनः – भवान् बेंगलूरुनगरे निवसति वा?

दीपकः – आं, तत्रैव निवस्…(मन्दस्वरेण, अङ्गुलीभिः गणयन्) निवसति, निवसतः, निवसन्ति, निवससि, निवसथः, निवसथ, निवसामि। (उच्चैः) निवसामि। बेंगलूरुनगरे निवसामि।

(मार्गं प्रति सम्मुखीभूय) हा हन्त! यानं गतम्।

(पुनः व्रजमोहनं प्रति) अपरं यानं कदा आगमिष्यति?

व्रजमोहनः – आगामि यानं सार्धचतुर्वादने आगमिष्यति। भवता एकघण्टां यावत् प्रतीक्षणीयम्।

(किञ्चित् कालानन्तरम्)

भवान् अत्र प्रथमवारम् आगतः किम्?

दीपकः – आम्।

व्रजमोहनः – कुत्र कार्यं करोति?

दीपकः – स्टेट्-बैंक्-वित्तकोषे कार्यं करो…(मन्दस्वरेण, अङ्गुलीभिः गणयन्) करोति, कुरुतः कुर्वन्ति, करोषि, कुरुथः, कुरुथ… (उच्चैः) करोमि। स्टेट्-बैंक्-वित्तकोषे कार्यं करोमि।

व्रजमोहनः – ताम्बूलं स्वीकरोतु।

दीपकः – मास्तु, धन्यवादः।

(किञ्चित् कालानन्तरम्)

व्रजमोहनः – पश्यतु महोदय, भवतः लोकयानम् आगतम्। एतस्मिन् अवसरे त्वरताम्।

दीपकः – अवश्यम्। त्वर्…(मन्दस्वरेण, अङ्गुलीभिः गणयन्) त्वरते, त्वरेते, त्वरन्ते, त्वरसे, त्वरेथे, त्वरध्वे, त्वरे। (उच्चैः) त्वरे। इदानीं त्वरे।

(मार्गं प्रति सम्मुखीभूय) हन्त यानं पुनः प्रस्थितम्।

(व्रजमोहनं प्रति) भ्रातः आगामि यानस्य कः आगमनसमयः?

व्रजमोहनः – सार्धपञ्चवादनम्। भवता पुनः एकघण्टां यावत् प्रतीक्षणीयम्। ताम्बूलं स्वीकरोतु।

दीपकः – मास्तु, धन्यवादः।

(किञ्चित् कालम् इतस्ततः सङ्क्रम्य चलितुं प्रस्थितः भवति।)

व्रजमोहनः – कुत्र गच्छति महोदय?

दीपकः – अहं चलित्वा एव बेङ्गलूरुनगरम्…(हस्तचालनेन चलनं सूचयति।)

पदस्मरणात् पूर्वं गृहम्…(हस्तचालनेन गन्तव्यप्राप्तिं सूचयति।)

व्रजमोहनः – ताम्बूलम्?

दीपकः – मास्तु, धन्यवादः।

Email invitation to the Sanskrit mailing list at work

26 April, 2013

—————

Closing Function of the 4th Spoken Sanskrit Class at TI

Friday, 26 April, 5-7pm, Jack Kilby Auditorium

Chief Guest: Dr P. Ramanujam, Group Co-ordinator, Indian Heritage Group, C-DAC

The 4th Spoken Sanskrit Class held at TI is coming to a close and you are invited to the final day function. This 10-day class familiarises beginners with the basics of Sanskrit language through a well-evolved format developed by Samskrita Bharati over 30 years.

Wait a second, did I say beginners? The fact is that none of the participants of the class is really a beginner, including those who filled ‘no prior exposure to Sanskrit’ in the class survey. Knowing the demographic of this mailing list, I can say that all of you already possess a fair amount of knowledge of Sanskrit, enough to classify you as at least ‘intermediate’. Let me explain how.

The learning of any language involves the study of its phonology (sounds of the language), morphology (formation of words), syntax (formation of sentences) and vocabulary (set of words), whether we know them by these names or not.

Most Indian languages have similar phonological repertoires, which sets them apart from the rest of the world’s languages. By being able to speak an Indian language, you are already almost a master of Sanskrit phonology. Of course your native language does influence your accent in Sanskrit, but you are far ahead of the rest of the world. You may not know the meaning but try saying वार्द्धक्यम् and then imagine an Arab or Chinese or European trying to pronounce it. You have already crossed the first hurdle.

Morphology is where most of our focus is when we learn Sanskrit, and for good reason. Sanskrit has a complex inflectional paradigm. Many of you who have studied Sanskrit in school or elsewhere can surely recollect struggling to memorise the 8X3 declension tables for nouns and 3X3 conjugation tables for verbs. Sanskrit also has a more transparent etymology than most languages and a rich tradition of using compound words, which gives it the ability to convey a message in very few words. What is formulated as clauses or adjectival phrases in English can be compacted into single-word adjectives in Sanskrit. Two examples:

The businessman who had arrived in town last nightगतरात्रनगरागतः वणिक्

The tree with the broken top branch. – भग्नाग्रशाखः वृक्षः

Syntax or sentence structure is relatively easy in Sanskrit because most of the complexity burden is taken by the word structure. Notice in the following example how the sentence has to undergo a contortion to covert into a question in English but not so in Sanskrit –

You will have lunch here today.

Where will you have lunch today?

भवान् अद्य अत्र भोजनं करिष्यति।

भवान् अद्य कुत्र भोजनं करिष्यति?

Notice also that the word order in Sanskrit is similar to most other Indian languages, but the English word order is quite different. So here again, we have a head start.

भवान् अद्य कुत्र भोजनं करिष्यति?
आप आज कहाँ भोजन करेंगे?
ನೀವು ಇವತ್ತು ಎಲ್ಲಿ ಊಟ ಮಾಡುತ್ತೀರಿ?
You today where lunch will have?

Vocabulary is another area where we cannot be considered beginners. Most major Indian languages have borrowed or inherited a large number of words from Sanskrit. Sometimes they may be disguised, for example இதயம்-हृदयम्, खेत-क्षेत्रम्, ಹಕ್ಕಿ-पक्षी, پروسنا-परिवेषणम्, ਵੇਖਨਾ-वीक्षणम्. In fact words borrowed from Sanskrit serve to bring Indian languages closer to each other. As a learner of Kannada, I can understand Kannada news on TV better than Kannada movie dialogues because of the higher Sanskrit content.

I mentioned transparent etymology earlier. That’s another factor that makes learning Sanskrit words easier. Most words in other languages are independent entries in our mental dictionaries, but in Sanskrit because of its more transparent etymology, with a little practice you can often guess the meaning of an unfamiliar word by breaking it down. Once you identify that the root of the word वार्द्धक्यम् is वृध्, you know that it has something to do with growing.

To put my arguments to test, do come to the closing function and see for yourself with how little effort you are able to follow and enjoy the speeches, songs and short plays that will be presented by the “beginner” students. If you go back not believing that ‘Sanskrit is a difficult language to learn’ then the efforts of the instructor and the students would have paid off. Dr Ramanujam from C-DAC will be the chief guest and he will speak on learning Sanskrit using modern technology.

हिन्दी में क्रियापद का लिंग

17 May, 2012

हिन्दी में क्रियापद का लिंग

ये वाक्य देखें –

महेश जाता है। वर्तमान काल, अकर्मक
महेश गया। भूत काल, अकर्मक
महेश चावल खाता है। वर्तमान काल, सकर्मक
महेश रोटी खाता है। वर्तमान काल, सकर्मक
महेश ने चावल खाया। भूत काल, सकर्मक
महेश ने रोटी खाई। भूत काल, सकर्मक

ऊपर के सभी वाक्यों में कर्ता (महेश) पुल्लिंग है। वाक्य ६ के अलावा सभी वाक्यों में क्रियापद भी पुल्लिंग है (जाता है/गया/खाता है/खाया)। वाक्य ६ में क्रियापद स्त्रीलिंग है (खाई)।

अब ये वाक्य देखें जिनमें कर्ता स्त्रीलिंग है।

सुधा जाती है। वर्तमान काल, अकर्मक
सुधा गई। भूत काल, अकर्मक
सुधा चावल खाती है। वर्तमान काल, सकर्मक
१० सुधा रोटी खाती है। वर्तमान काल, सकर्मक
११ सुधा ने चावल खाया। भूत काल, सकर्मक
१२ सुधा ने रोटी खाई। भूत काल, सकर्मक

इन वाक्यों में भी क्रियापद कर्ता के अनुरूप स्त्रीलिंग है, केवल वाक्य ११ को छोड़ कर। ध्यान से देखें तो दोनों अपवाद वाक्यों में क्रियापद के लिंग की कर्ता से नहीं बल्कि कर्म से समरूपता है।

६ महेश ने रोटी खाई। (कर्म = रोटी, स्त्रीलिंग)

११ सुधा ने चावल खाया। (कर्म = चावल, पुल्लिंग)

संक्षेप में ये कहा जा सकता है कि हिन्दी में वर्तमान काल में अकर्मक और सकर्मक क्रियापदों का लिंग कर्ता से निर्धारित होता है। लेकिन भूतकाल में अकर्मक क्रियापद का लिंग कर्ता से और सकर्मक क्रियापद का कर्म से निर्धारित होता है।

ये तो वर्णन हुआ नियम का। नियम की उत्पत्ति के लिये संस्कृत वाक्यों को देखें –

महेशः गच्छति। वर्तमान काल, अकर्मक
महेशः अगच्छत्। भूत काल, अकर्मक
महेशः ओदनं खादति। वर्तमान काल, सकर्मक
महेशः रोटिकां खादति। वर्तमान काल, सकर्मक
महेशः ओदनम् अखादत्। भूत काल, सकर्मक
महेशः रोटिकाम् अखादत्। भूत काल, सकर्मक
सुधा गच्छति। वर्तमान काल, अकर्मक
सुधा अगच्छत्। भूत काल, अकर्मक
सुधा ओदनं खादति। वर्तमान काल, सकर्मक
१० सुधा रोटिकां खादति। वर्तमान काल, सकर्मक
११ सुधा ओदनम् अखादत्। भूत काल, सकर्मक
१२ सुधा रोटिकाम् अखादत्। भूत काल, सकर्मक

संस्कृत में क्रियापद लिंगरहित होता है इसलिये कर्ता चाहे पुल्लिंग हो या स्त्रीलिंग, क्रियापद एक सा होता है। लेकिन संस्कृत में भूतकालिक वाक्यों का एक और स्वरूप प्रचलित है जिसमें लङ्लकार की जगह ’क्‍त’ प्रत्यय से भूतकाल का भाव प्रकट किया जाता है। इस स्वरूप के भूतकालिक वाक्यों के उदाहरण देखें –

महेशः गतः। भूत काल, अकर्मक
महेशेन ओदनं खादितम्। भूत काल, सकर्मक
महेशेन रोटिका खादिता। भूत काल, सकर्मक
सुधा गता। भूत काल, अकर्मक
११ सुधया ओदनं खादितम्। भूत काल, सकर्मक
१२ सुधया रोटिका खादिता। भूत काल, सकर्मक

यहाँ अकर्मक वाक्य कर्तृवाच्य में है, जबकि सकर्मक वाक्य कर्मवाच्य में है। इससे अकर्मक वाक्यों में क्रिया कर्ता से निर्धारित ह्आ है और सकर्मक वाक्यों में कर्म से। शायद हिन्दी में भूतकालिक वाक्य की उत्पत्ति संस्कृत के ’क्‍त’ प्रत्यय वाले स्वरूप से हुई है, जिससे अकर्मक और सकर्मक क्रियापदों के लिंग-निर्धारण में विषमता आई है।

नवरात्रस्य शुभाशयाः

28 September, 2011
अद्य नवरात्राणां प्रथमं दिनम्। एषः पर्वः भारतस्य विविधप्रान्तेषु बहुविधम् आचर्यते। पंचनदप्रदेशीयाः नवरात्राणां प्रथमदिने कस्मिंश्चित् पात्रे यवबीजानि वपन्ति, अन्तिमे च दिने तेभ्यः उद्भूतैः अंकुरैः देवान् पूजयन्ति। किन्तु किमर्थं प्रचलितम् अन्नं गोधूमं विहाय पर्वाचरणे यवस्य प्रयोगः? एतस्य रहसः प्रकाशं मां संस्कृतशब्दकोशे गोधूमस्य “म्लेच्छान्नम्” इति पर्यायपदस्य दर्शनेन अभवत्। प्रायः प्राक्कले यवः एव पंचनदप्रदेशे प्रचलितं खाद्यान्नम् आसीत्। क्रमेण गोधूमस्य भक्षणं जनेषु सामान्यः अभवत्, किन्तु अद्यापि पर्वविधाने यववपनस्य परम्परा।
यव = जौ = barley
गोधूम = गेहूँ = wheat

गुल्ज़ार-कृत-मिर्ज़ाग़ालिब-उपन्यासात् उद्धृतः प्रसंगः उर्दूभाषायाः संस्कृते अनूदितः

10 July, 2011

जीवनचक्रं पुनः पूर्ववत् अन्ववर्तत। आम्रर्तुः पुनरागतः। शिष्टाः मित्रबान्धवाः मिर्ज़ाग़ालिबेन स्वगृहम् आमन्त्रिताः आसन्। वीथिः निरुद्धा इव आसीत्।

क़ासिम्‌जान्‌वीथ्यां गृहद्वारात् बहिः कतिचन पर्यंकाः विष्ठिताः आसन्। कतिचन वेत्रपीठिकाः अपि स्थापिताः आसन्। सेवकः तत्र आम्रपूर्णां द्रोणीं न्यदधात्। हाजीमीरः एकस्य आम्रस्य शल्कं निवारयन् अवदत् –

“किं भ्रातः! आम्राणि मधुराणि खलु?”

नवाबशेफ़्तः स्मयमानः अवदत् –

“मिर्ज़ा वदति यत् आम्रेषु द्वौ गुणौ आवश्यकौ – तानि मधुराणि स्युः, बहूनि स्युः च!”

सर्वे आम्राणि खादन्तः आसन् – मिर्ज़ा, हाजीमीरः, नवाबशेफ़्तः, हरगोपालतफ़्तः, मौमिनः, मुफ़्तीसदरुद्दीनः, नवयुवककविः हाली च, किन्तु वैद्यः रज़ीउद्दीनः एकमपि आम्रं न स्पृष्टवान्। सः पानकं पिबन् असीत्। ग़ालिबः पुनः प्रार्थितवान् –

“वैद्यवर्यः, एकम् आम्रम् आस्वादयतु।”

“अहम् आम्राणि न खादामि, भ्रातः, धन्यवादः। मह्यम् एतत् पानकं पर्याप्तम्।”

सर्वे सम्भाषमाणाः आसन्। तावत् एकः पुरुषः स्वस्य गर्दभं चोदयन् उपागतः। हाली तेन सह व्यवाहरत्।

“भ्रातः, अन्यया वीथ्या तीरतु। किमर्थं सर्वान् उत्थापयितुम् इच्छति?”

तावत् गर्दभः आम्रशल्कानि घ्रात्वा तेभ्यः विमुखः अतिष्ठत्। वैद्यः रज़ीउद्दीनः एतत् अवलोकमानः असीत्।

“मिर्ज़ा! किं भवता लक्षितम् एतत्? गर्दभः आम्रशल्कानि घ्रात्वा तानि अत्यजत्। गर्दभाः अपि आम्राणि न खादन्ति।”

झटिति मिर्ज़ा प्रत्युत्तरम् अददात् –

“सत्यम्! गर्दभाः आम्राणि न खादन्ति।”

Regular sound change

15 October, 2010

Examples of regular sound change in Punjabi and Hindi

The first column contains Sanskrit words with a consonant followed by a short vowel followed by two dissimilar consonants (c1vc2c3).

The second column contains the corresponding Punjabi word that show assimilation (परसवर्ण सन्धिः) of the last two consonants (c1vc2c2)

The third column has the Hindi word with the short vowel changed to its long form (with optional nasalisation) and the consonant cluster simplified to a single consonant (c1Vc2). The length of the syllable (मात्रा) remains the same.

Sanskrit

Punjabi   [Devanagari transliteration]

Hindi

c1vc2c3

c1vc2c2

c1Vc2

हस्त

ਹੱਥ  [हत्थ]

हाथ

सप्त

ਸੱਤ  [सत्त]

सात

अष्ट

ਅੱਠ  [अट्ठ]

आठ

कर्तन

ਕੱਟਨਾ  [कट्टना]

काटना

कर्म

ਕੰਮ  [कम्म]

काम

अर्ध

ਅੱਧਾ  [अद्धा]

आधा

अद्य

ਅੱਜ  [अज्ज]

आज

चन्द्र

ਚੰਨ  [चन्न]

चाँद

सर्प

ਸੱਪ  [सप्प]

साँप

अक्षि

ਅੱਖ  [अक्ख]

आँख

सिद्ध?

ਸਿੱਧਾ  [सिद्धा]

सीधा

दुग्ध

ਦੁੱਧ  [दुद्ध]

दूध

पुत्र

ਪੁੱਤ  [पुत्त]

पूत

ਜਿੱਤਨਾ  [जित्तना]

जीतना

ਤਿੰਨ  [तिन्न]

तीन

सुप्त

ਸੁੱਤਾ  [सुत्ता]

ਘੁੰਮਨਾ  [घुम्मना]

घूमना

ਧੁੱਪ  [धुप्प]

धूप

अदृश्या भित्तिः

11 April, 2010

किंचित् कार्यं साधयितुम् एकदा अहं भारतगैसकार्यालयं प्रति गच्छन् असम्। तत् मम गृहात् द्वे किलोमीटरदूरे आसीत्।  मार्गे एका वृद्धा एके पत्रे लिखितं संकेतं माम् दर्शयित्वा तत्र गमनस्य मार्गम् अपृच्छत्। सः तस्यैव भवनस्य संकेतः असीत् यत् प्रति अहं गच्छन् आसम्। अहं तां मार्गं दर्शयित्वा अकथयं यत् “अहं तत्रैव गच्छन् अस्मि। भवती इच्छति चेत् मया सह आगच्छतु।” आवाम् ततः मिलित्वा चलितुम् आरब्धवन्तौ। चलन् संभाषणम् आरब्धवन्तौ। सा हलसूरे कस्मिंश्चित् उद्याने उद्यानपालिकारूपेण कार्यं करोति इति अहं ज्ञातवान्। “अहं षड् भाषाः जानामि” इति सा संभाषणे उक्तवती – मराठी, कन्नड, तेलुगु, तमिल्, हिन्दी, उर्दू। (हिन्दी, उर्दू च तया भिन्ने गणिते।) “आंग्लभाषां किंचिदपि न जानाति खलु” अहं पृष्टवान्। “न जानामि” सा उक्तवती। भारतीयेषु महानगरेषु सर्वतः अपि सुलभा या भाषा मया मता ताम् एषा पंचभाषाज्ञानिनी न जानाति इति श्रुत्वा मम किंचित् आश्चर्यम् अभवत्। तदा समाजे स्थिता अदृश्या भित्तिः मया किंचित् दृष्टा।