स्मरणस्य महत्त्वम्
पात्रसूचिः
दीपकः – यात्री
व्रजमोहनः – ताम्बूलविक्रेता
(कस्यचित् ग्रामस्य बस्-स्थानकम्।)
दीपकः – भोः भ्रातः, बेङ्गलूरुनगरं गच्छत् लोकयानं कदा आगमिष्यति?
व्रजमोहनः – सार्धत्रिवादनं नियतसमयः। इदानीं पञ्चविंशत्यधिकत्रिवादनम्। पञ्चनिमेशान् प्रतीक्षतां, यानम् आगच्छत्येव। ताम्बूलं स्वीकरोतु।
दीपकः – मास्तु, धन्यवादः। अहो! यानम् आगतम्।
व्रजमोहनः – भवान् बेंगलूरुनगरे निवसति वा?
दीपकः – आं, तत्रैव निवस्…(मन्दस्वरेण, अङ्गुलीभिः गणयन्) निवसति, निवसतः, निवसन्ति, निवससि, निवसथः, निवसथ, निवसामि। (उच्चैः) निवसामि। बेंगलूरुनगरे निवसामि।
(मार्गं प्रति सम्मुखीभूय) हा हन्त! यानं गतम्।
(पुनः व्रजमोहनं प्रति) अपरं यानं कदा आगमिष्यति?
व्रजमोहनः – आगामि यानं सार्धचतुर्वादने आगमिष्यति। भवता एकघण्टां यावत् प्रतीक्षणीयम्।
(किञ्चित् कालानन्तरम्)
भवान् अत्र प्रथमवारम् आगतः किम्?
दीपकः – आम्।
व्रजमोहनः – कुत्र कार्यं करोति?
दीपकः – स्टेट्-बैंक्-वित्तकोषे कार्यं करो…(मन्दस्वरेण, अङ्गुलीभिः गणयन्) करोति, कुरुतः कुर्वन्ति, करोषि, कुरुथः, कुरुथ… (उच्चैः) करोमि। स्टेट्-बैंक्-वित्तकोषे कार्यं करोमि।
व्रजमोहनः – ताम्बूलं स्वीकरोतु।
दीपकः – मास्तु, धन्यवादः।
(किञ्चित् कालानन्तरम्)
व्रजमोहनः – पश्यतु महोदय, भवतः लोकयानम् आगतम्। एतस्मिन् अवसरे त्वरताम्।
दीपकः – अवश्यम्। त्वर्…(मन्दस्वरेण, अङ्गुलीभिः गणयन्) त्वरते, त्वरेते, त्वरन्ते, त्वरसे, त्वरेथे, त्वरध्वे, त्वरे। (उच्चैः) त्वरे। इदानीं त्वरे।
(मार्गं प्रति सम्मुखीभूय) हन्त यानं पुनः प्रस्थितम्।
(व्रजमोहनं प्रति) भ्रातः आगामि यानस्य कः आगमनसमयः?
व्रजमोहनः – सार्धपञ्चवादनम्। भवता पुनः एकघण्टां यावत् प्रतीक्षणीयम्। ताम्बूलं स्वीकरोतु।
दीपकः – मास्तु, धन्यवादः।
(किञ्चित् कालम् इतस्ततः सङ्क्रम्य चलितुं प्रस्थितः भवति।)
व्रजमोहनः – कुत्र गच्छति महोदय?
दीपकः – अहं चलित्वा एव बेङ्गलूरुनगरम्…(हस्तचालनेन चलनं सूचयति।)
पदस्मरणात् पूर्वं गृहम्…(हस्तचालनेन गन्तव्यप्राप्तिं सूचयति।)
व्रजमोहनः – ताम्बूलम्?
दीपकः – मास्तु, धन्यवादः।