Posts Tagged ‘urdu’

गुल्ज़ार-कृत-मिर्ज़ाग़ालिब-उपन्यासात् उद्धृतः प्रसंगः उर्दूभाषायाः संस्कृते अनूदितः

10 July, 2011

जीवनचक्रं पुनः पूर्ववत् अन्ववर्तत। आम्रर्तुः पुनरागतः। शिष्टाः मित्रबान्धवाः मिर्ज़ाग़ालिबेन स्वगृहम् आमन्त्रिताः आसन्। वीथिः निरुद्धा इव आसीत्।

क़ासिम्‌जान्‌वीथ्यां गृहद्वारात् बहिः कतिचन पर्यंकाः विष्ठिताः आसन्। कतिचन वेत्रपीठिकाः अपि स्थापिताः आसन्। सेवकः तत्र आम्रपूर्णां द्रोणीं न्यदधात्। हाजीमीरः एकस्य आम्रस्य शल्कं निवारयन् अवदत् –

“किं भ्रातः! आम्राणि मधुराणि खलु?”

नवाबशेफ़्तः स्मयमानः अवदत् –

“मिर्ज़ा वदति यत् आम्रेषु द्वौ गुणौ आवश्यकौ – तानि मधुराणि स्युः, बहूनि स्युः च!”

सर्वे आम्राणि खादन्तः आसन् – मिर्ज़ा, हाजीमीरः, नवाबशेफ़्तः, हरगोपालतफ़्तः, मौमिनः, मुफ़्तीसदरुद्दीनः, नवयुवककविः हाली च, किन्तु वैद्यः रज़ीउद्दीनः एकमपि आम्रं न स्पृष्टवान्। सः पानकं पिबन् असीत्। ग़ालिबः पुनः प्रार्थितवान् –

“वैद्यवर्यः, एकम् आम्रम् आस्वादयतु।”

“अहम् आम्राणि न खादामि, भ्रातः, धन्यवादः। मह्यम् एतत् पानकं पर्याप्तम्।”

सर्वे सम्भाषमाणाः आसन्। तावत् एकः पुरुषः स्वस्य गर्दभं चोदयन् उपागतः। हाली तेन सह व्यवाहरत्।

“भ्रातः, अन्यया वीथ्या तीरतु। किमर्थं सर्वान् उत्थापयितुम् इच्छति?”

तावत् गर्दभः आम्रशल्कानि घ्रात्वा तेभ्यः विमुखः अतिष्ठत्। वैद्यः रज़ीउद्दीनः एतत् अवलोकमानः असीत्।

“मिर्ज़ा! किं भवता लक्षितम् एतत्? गर्दभः आम्रशल्कानि घ्रात्वा तानि अत्यजत्। गर्दभाः अपि आम्राणि न खादन्ति।”

झटिति मिर्ज़ा प्रत्युत्तरम् अददात् –

“सत्यम्! गर्दभाः आम्राणि न खादन्ति।”

Advertisements